वेदविज्ञानवैभवम्:Vedvigyanvaibhavam
Prof. Sundarnarayan Jha · Chaukhambha Orientalia Delhi
ग्रन्थपरिचयः वेदविज्ञानवैभवम् इति नामा देवगिरा विरचितेऽस्मिन् ग्रन्थे वेदेषु वैदिकसाहित्येषु च यत्र-तत्रोपलभ्य- मानानां विविधानां वैज्ञानिकविषयाणां विवेचनं प्रस्तुतमस्ति। आधुनिक- विज्ञानदृष्ट्या तेषां समेषामपि वेद- विज्ञानविषय-सम्बद्धानां सूत्राणां कुत्र कथं सङ्गतिरुपयोगश्च समुपलभ्यत इति विचारं मनसि निधाय केषाञ्चिल्लेख- कानां निबन्धानधीत्य स्वमत्यनुरूपं विषयानुपस्थाय तद्विषयकं चिन्तनं कृत्वा यान्निबन्धान्मया काले-काले व्यलेखि तेषां सन्दर्भितानां प्रकाशितानाम- प्रकाशितानाञ्च पञ्चविंशतिसंख्यकानां निबन्धानामत्र सङ्ग्रहं विधायेष ग्रन्थ- रत्नरचनात्मकः प्रयत्नोऽधुना साफल्यता- मेति। आशासे ग्रन्थस्यास्याध्ययनेन वेदोक्तवैज्ञानिकसिद्धान्तम्प्रत्यनुसन्धानाय प्रवृत्तानां समेषामपि जिज्ञासूनां पिपठिषू- नाञ्च जिज्ञासाशान्तिर्भविष्यत्यथ च वेदोक्तैस्सिद्धान्तैरपरिचितास्सु- परिचिता भविष्यन्तीत्यलमति विस्तरेण।
Buy NowIndia's trusted online book store